सौन्दर्यलहरी || Soundarya Lahari || Soundaryalahari ( Slokas 1 – 50 )

सौन्दर्यलहरी, Soundarya Lahari, Soundarya Lahari Ke Fayde, Soundarya Lahari Ke Labh, Soundarya Lahari Benefits, Soundarya Lahari Pdf, Soundarya Lahari Mp3 Download, Soundarya Lahari Lyrics. 

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

सौन्दर्यलहरी || Soundarya Lahari || Soundaryalahari ( Slokas 1 – 50 )

“सौंदरी लाहारी” का अर्थ है “सौंदर्य की लहरें” ! सौन्दर्यलहरी के रचियता आदि शंकराचार्य हैं ! सौन्दर्यलहरी सौहार्दपूर्ण मां के लिए सबसे प्रसिद्ध संस्कृत भजनों में से एक है, एक सौ छंद, सौंदर्य, कृपा, करुणा और शक्ति के अन्य अच्छे गुण, शिव की पत्नी । 100 श्लोक में से कुछ में कुंडलिनी, शरीर में छः चक्र ( रहस्यवादी / मानसिक केंद्र ) के विवरण शामिल हैं, जो सक्रिय होने पर, हमारी चेतना, पूजा के तरीके, चिंतन और ध्यान के मार्ग के अनुयायियों द्वारा किए गए ध्यान में क्रांतिकारी बदलाव करते हैं ! सौन्दर्यलहरी आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Soundarya Lahari By Online Specialist Astrologer Acharya Pandit Lalit Trivedi.

सौन्दर्यलहरी || Soundarya Lahari || Soundaryalahari ( Slokas 1 – 50 )

शिवः शक्त्यायुक्तो यदि भवति शक्तः प्रभवितुं

न् चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।

अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि

प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥१॥

तनीयांसं पासुं तव चरणपङ्केरुहभवं

विरिञ्चिः सञ्चिन्वन् विरचयति लोकानविकलम् ।

वहत्येनं शौरिः कथमपि सहस्रेण शिरसां

हरः संक्षुद्यै(भ्यै)नं भजति भसितोद्धूलनविधिम्  ॥२॥

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी

जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ

निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥३॥

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः

त्वमेका नैवासि प्रकिटितवराभीत्यभिनया  ।

भयात्त्रातुं दातुं फलमपि च वाञ्झासमधिकं

शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥४॥

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं

पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत्

स्मरोऽपि त्वां नत्वा रतिनयनलेह्येनवपुषा

मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥५॥

धनुः पौष्पं मौर्वी मधुकरमयी पञ्चविशिखाः

वसन्तः सामन्तो मलयमरुदायोधनरथः ।

तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-

मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥६॥

क्वणत्काञ्चीदामा करिकलभकुंभस्तननता

परिक्षीणामध्ये परिणतशरच्चन्द्रवदना ।

धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः

पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥७॥

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते

मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।

शिवाकारे मञ्चे परमशिवपर्यंकनिलयां

भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥८॥

महीं मूलाधारे कमपि मणिपूरे हुतवहं

स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।

मनोऽपि भ्रूमध्ये सकलमपि भित्त्वा कुलपथं

सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥९॥

*सुधाधारासारैश्चरणयुगलान्तर्विगलितैः

प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।

अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं

स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥१०॥

*चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

प्रभिन्नाभिश्शंभोर्नवभिरपि मूलप्रकृतिभिः ।

चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-

त्रिलेखाभिस्सार्धं तव शरणकोणाः परिणताः ॥११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं

कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः

यदालोकौत्सुक्यादमरललना यान्ति मनसा

तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम्  ॥१२॥

[AdSense-A]

नरं  वर्षीयांसं नयनविरसं नर्मसु जडं

तवापांगालोके पतितमनुधावन्ति शतशः

गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया

हठात्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥१३॥

क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके

हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।

दिवि द्विषट्त्रिंशन्मनसि च चतुःषष्टिरिति ये

मयूखास्तेषामप्युपरि तव पादांबुजयुगम् ॥१४॥

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां

वरत्रासत्राणस्फटिकघुटिकापुस्तककराम् ।

सकृन्नत्वा नत्वा कथमिव सतां सन्निदधते

मधुक्षीरद्राक्षामधुरिमधुरीणा फणितयः  ॥१५॥

कवीन्द्राणां चेतःकमलवनबालातपरुचिं

भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।

विरिञ्चिप्रेयस्यास्तरुणतर शृंगारलहरी-

गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥१६॥

सवित्रीभिर्वाचां शशिमणिशिलाभंगरुचिभिः

वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयति यः।

स कर्ता काव्यानां भवति महतां  भंगिरुचिभि-

र्वचोभिर्वाग्देवी वदनकमलामोदमधुरैः  ॥१७॥

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभि-

र्दिवं सर्वामुर्वीमरुणिमनिमग्नां स्मरति यः।

भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः

सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥१८॥

*मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो

हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्

स सद्यः संक्षोभं नयति वनिता इत्यति लघु

त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम्  ॥१९॥

किरन्तीमङ्गेभ्यः किरणनिकुरुंबामृतरसं

हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः।

स सर्पाणां दर्पं शमयति शकुन्ताधिप इव

ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥२०॥

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं

निषणां षण्णामप्युपरि कमलानां तवकलाम्

महापद्माटव्यां मृदितमलमायेन मनसा

महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥२१॥

 भवानि! त्वं दासे मयि वितर दृष्टिं सकरुणां

 इति स्तोतुं वाञ्छन् कथयति भवनि ! त्वमिति यः।

 तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीम्

 मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम्  ॥२२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा

शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत्।

यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं

कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥२३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते

तिरस्कुर्वन्नेतत् स्वमपि वपुरीशस्तिरयति ।

सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिवः

तवाज्ञामालंब्य क्षणचलितयोर्भ्रूलतिकयोः ॥२४॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे

भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।

तथा हि त्वत्पादोद्वहनमणिपीठस्यनिलये

स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥२५॥

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं

विनाशं कीनाशो भजति धनदो याति निधनम् ।

वितन्त्री(न्द्री) माहेन्द्रीविततिरपि सम्मीलितदृशा

महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥२६॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना

गतिः प्रादक्षिण्यक्रमणमशनाद्याहुति विधिः ।

प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा

सपर्या पर्यायस्तव भवतु यन्मे विलसितम् ॥२७॥

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं

विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।

करालं यत्क्ष्वेलं कबलितवदः कालकलना

न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥२८॥

[AdSense-B]

किरीटं वैरिञ्चं परिहर कैटभभिदः

कठोरे कोटीरे स्खलसि जहि जंभारि मकुटम् ।

प्रणम्रेष्वेतेषु प्रसभमभियातस्य भवनम्

भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥२९॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो

निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।

किमाश्चर्यं तस्य त्रिणयनसमृद्धिं तृणयतो

महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥३०॥

*चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं

स्थितः तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः।

पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-

स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥३१॥

*शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः

स्मरो हंसः शक्रस्तदनु च परामारहरयः ।

अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिताः

भजन्ते वर्णास्ते तव जननि नामावयवताम्  ॥३२॥

*स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनोः

निधायैके नित्ये निरवधिमहाभोगरसिकाः।

भजन्ति त्वां चिन्तामणिगुणनिबद्धाक्षवलयाः

शिवाग्नौ जुह्वन्तस्सुरभिघृतधाराहुतिशतैः॥३३॥

*शरीरं त्वं शंभोः शशिमिहिरवक्षोरुहयुगं

तवात्मानं मन्ये भगवति! नवात्मानमनघम्

अतः शेषः शेषीत्ययमुभयसाधारणतया

स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥३४॥

मनस्त्वं व्योमत्वं मरुदसि मरुत्सारथिरसि

त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा

चिदानन्दाकारं शिवयुवतिभावेन बिभृषे ॥३५॥

*तवाज्ञाचक्रस्थं तपनशशिकॊटिद्युतिधरं

परं शंभुं वन्दे परिमिलितपार्श्वं परचिता ।

यमाराध्यन् भक्त्या रविशशिशुचीनामविषये

निरालोके लोके निवसति हि भालोकभुवने ॥३६॥

*विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं

शिवं सेवे देवीमपि शिवसमानव्यवसितां ।

ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-

र्विधूतान्तर्ध्वान्ताः विलसति चकोरीव जगति ॥३७॥

*समुन्मीलत्संवित्कमलमकरन्दैकरसिकं

भजे हंसद्वन्द्वं किमपि महतां मानसचरं ।

यदालापादष्टादशगुणितविद्यापरिणति-

र्यदादत्ते दोषात् गुणमखिलमद्भ्यः पय इव ॥३८॥

*तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं

तमीडे संवर्तं जननि! महतीं तां च समयाम् ।

यदालोके लोकान् दहति महति क्रोधकलिते

दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥३९॥

*तटित्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया

स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषं ।

तव श्यामं मेघं किमपि मणिपूरैकशरणम्

निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥४०॥

[AdSense-C]

*तवाधारे मूलॆ सह समयया लास्यपरया

नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।

उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया

सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥४१॥

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं

किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः

स नीडे यच्छायाच्छुरणशबलं चन्द्रशकलं

धनुश्शौनासीरं किमिति निबध्नाति धिषणां ॥४२॥

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं

घनस्निग्धश्लक्ष्णं चिकुरनिकुरुंबं तव शिवे ।

यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो

वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥४३॥

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी

परीवाहस्रोतस्सरणिरिव सीमन्तसरणिः।

वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-

द्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥४४॥

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः

परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिं ।

दरस्मेरे यस्मिन् दशनरुचिकिञल्करुचिरे

सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥४५॥

ललाटं लावण्यद्युतिविमलमाभाति तव यत्

द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलं ।

विपर्यासन्यासादुभयमपि संभूय च मिथः

सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥४६॥

भ्रुवै भुग्ने किञ्चित् भुवनभयभंगव्यसनिनि !

त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम्

धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः

प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥४७॥

अहः सूते सव्यं तवनयनमर्कात्मकतया

त्रियामां वामं ते सृजति रजनीनायकतया ।

त्रितीया ते दृष्टिर्दरदलितहेमांबुजरुचिः

समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥४८॥

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः

कृपाधारा धारा किमपि मधुरा भोगवतिका ।

अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया

ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥४९॥

कवीनां सन्दर्भस्तबकमकरन्दैकरसिकं

कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलं ।

अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-

वसूया संसर्गादलिकनयनं किञ्चिदरुणम् ॥५०॥

10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope  ) बनवाए केवल 500/- ( Only India Charges  ) में ! Mobile & Whats app Number : +91-9667189678

<<< पिछला पेज पढ़ें                                                                                                                      अगला पेज पढ़ें >>>


यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )

यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here

Scroll to Top