श्री विष्णु महिम्न स्तोत्र, Shri Vishnu Mahimna Stotram, Shri Vishnu Mahimna Stotram Ke Fayde, Shri Vishnu Mahimna Stotram Ke Labh, Shri Vishnu Mahimna Stotram Benefits, Shri Vishnu Mahimna Stotram Pdf, Shri Vishnu Mahimna Stotram Mp3 Download, Shri Vishnu Mahimna Stotram Lyrics.
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
श्री विष्णु महिम्न स्तोत्र || Shri Vishnu Mahimna Stotram
श्री विष्णु महिम्न स्तोत्रम् भगवान श्री विष्णु जी को समर्पित हैं ! श्री विष्णु महिम्न स्तोत्रम् ब्रह्मानन्द विरचितं द्वारा रचियत हैं ! श्री विष्णु महिम्न स्तोत्रम् आदि के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Shri Vishnu Mahimna Stotram By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.
श्री विष्णु महिम्न स्तोत्र || Shri Vishnu Mahimna Stotram
महिम्नस्ते पारं विधिहरफणीन्द्रप्रभृतयो विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथ नु कथम्।
विजानीयामद्धा नलिननयनात्मीयवचसो विशुद्ध्यै वक्ष्यामीषदपि तु तथापि स्वमतितः ॥१॥
यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परेऽ परे बुद्धञ्चान्ये शिवमपि च धातारमपरे।
तथा शक्तिं केचित् गणपतिमुतार्कञ्च सुधियो मतीनां वै भेदात्त्वमसि तदशेषं मम मतिः ॥२॥
शिवः पादांभस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुजतेजोमयतनुः।
दिनेशं चैवामुं तव नयनमूचुस्तु निगमा- स्त्वदन्यः को ध्येयो जगति किल देवो वद विभो ॥३॥
क्वचिन्मत्स्यः कूर्मः क्वचिदपि वराहो नरहरिः क्वचित् खर्वो रामो दशरथसुतो नन्दतनयः।
क्वचिद्बुद्धः कल्की विहरसि कुभारापहृतये स्वतन्त्रोऽजो नित्यो विभुरपि तवाक्रीडनमिदम्॥४॥
हृताम्नायेनोक्तं स्तवनवरमाकर्ण्य विधिना द्रुतं मात्स्यं धृत्वा वपुरजर शंखासुरमथो।
क्षयं नीत्वा मृत्योर्निगमगणमुद्धृत्य जलधे- रशेषं संगुप्तं जगदपि च वेदैकशरणम् ॥५॥
निमज्जन्तं वार्द्धौ नगवरमुपालोक्य सहसा हितार्थं देवानां कमठवपुषाविश्य गहनम्।
पयोराशिं पृष्ठे तमजित सलीलं धृतवतो जगद्धातुस्तेऽभूत्किमु सुलभभाराय गिरिकः ॥६॥
हिरण्याक्षः क्षॊणीमविशदसुरो नक्रनिलयं समादायामर्त्यैः कमलजमुखैरंबरगतैः।
स्तुतेनानन्तात्मन्नचिरमाभाति स्म विधृता त्वया दंष्ट्राग्रेऽसाववनिरखिला कन्दुक इव ॥७॥
हरिः क्वास्तीत्युक्ते दनुजपतिनाऽऽपूर्य़निखिलं जगन्नादैः स्तंभान्नरहरिशरीरेण करजैः
समुत्पत्याशूरस्यसुरवरमादारितवत- स्तव ख्याता भूमन् किमु जगति नो सर्वगतता॥८॥
विलोक्याऽजं द्वार्गं कपटलघुकायं सुररिपु- र्निषिद्धोऽपि प्रादादसुरगुरुणात्मीयमखिलम्।
प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं बलेर्भक्ताधीन्यं तव विदितमेवामरपते ॥९॥
[AdSense-A]
समाधावासक्तं नृपतितनयैर्वीक्ष्य पितरं हतं बाणैः रोषाद् गुरुतरमुपादाय परशुम्।
विनाक्षत्रं विष्णो क्षितितलमशेषं कृतवतो सकृत् किं भूभारोद्धरणपटुता ते न विदिता ॥१०॥
समाराध्योमेशं त्रिभुवनमिदं वासवमुखं वशे चक्रे चक्रिन्नगणयदनिशं जगदिदम्।
गतोऽसौ लंकेशस्त्वचिरमथ ते बाणविषयं न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो॥११॥
क्वचिद्दिव्यं शौर्यं क्वचिदपि रणे कापुरुषता क्वचिद्गीताज्ञानं क्वचिदपि परस्त्रीविहरणम्।
क्वचिन्मृत्स्नाशित्वं क्वचिदपि वैकुण्ठविभव- श्चरित्रं ते नूनं शरणद! विमोहाय कुधियाम् ॥१२॥
न हिंस्यादित्येव ध्रुवमवितथं वाक्यमबुधै- र्यथाग्नीषोमीयं पशुमितितु विप्रैर्निगदितम्।
तवैतन्नास्थानेऽसुरगणविमोहाय गदतः समृद्धिर्नीचानां नयकर हि दुःखाय जगतः॥१३॥
विभागे वर्णानां निगमनिचये चावनितले विलुप्ते सञ्जातो द्विजवरगृहे शंभलपुरे।
समारुह्याश्वं त्वं लसदसिकरो म्लेच्छनिकरान् निहन्तास्युन्मत्तान् किल कलियुगान्ते युगपते ॥१४॥
गभीरे कासारे जलचरवराकृष्टचरणो रणेऽशक्तो मज्जन्नभयद जलेऽचिन्तयदसौ।
यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो गतःस्वर्गं स्थानं भवति विपदां ते किमु जनः ॥१५॥
सुतैः पृष्टो वेधाः प्रतिवचनदानेऽप्रभुरसा- वथात्मन्यात्मानं शरणमगमत्त्वां त्रिजगताम्।
ततस्तेऽस्तातङ्का ययुरथ मुदं हंसवपुषा त्वया ते सार्वज्ञं प्रथितममरेशेह किमु नो ॥१६॥
समाविद्धो मातुर्वचनविशिखैराशु विपिनं तपः कृत्वा गत्वा तव परम तोषाय परमं।
ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि किमस्त्यस्मिंलोके त्वयि वरद तुष्टे दुरधिगम्॥१७॥
वृकाद्भीतस्तूर्णं स्वजनभयभित्त्वां पशुपति- र्भ्रमंलोकान् सर्वान् शरणमुपयातेऽथ दनुजः।
स्वयं भस्मीभूतस्तववचनभङ्ग्युद्गतमतिः रमेश हे माया तव दुरनुमेयाऽखिलजनैः ॥१८॥
[AdSense-B]
हृतं दैत्यैर्दृष्ट्वाऽमृतघटमजय्यैस्तु नयतः कटाक्षैः सम्मोहं युवतिवरवेषेण दितिजान्।
समग्रं पीयूषं सुभगसुरपूगायददतः समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः॥१९॥
समाकृष्टा दुष्टैर्द्रुपदतनयाऽलब्धशरणा सभायां सर्वात्मंस्तव चरणमुच्चैरुपगता।
समक्षं सर्वेषामभवदचिरं चीरनिचयम् स्मृतेस्ते साफल्यं नयनविषयं नो किमु सतां॥२०॥
वदन्त्येके स्थानं तव वरद! वैकुण्ठमपरे गवां लोकं लोकं फणिनिलयपातालमितरे।
तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां न मन्ये तत्स्थानं त्वहमिह च यत्रासि न विभो ॥२१॥
शिवोऽहं रुद्राणामहममरराजो दिविषदां मुनीनां व्यासोऽहं सुरवर समुद्रोऽस्मि सरसाम्।
कुबेरो यक्षाणामिति तव वचो मन्दमतये न जाने तज्जातं जगति ननु यन्नासि भगवन्॥२२॥
शिरो नाको नेत्रे शशिदिनकरावंबरमुरो दिशः श्रोत्रे वाणी निगमनिकरस्ते कटिरिला।
अकूपारो वस्तिश्चरणमपि पातालमिति वै स्वरूपं तेऽज्ञात्वा नृतनुमवजानन्ति कुधियः ॥२३॥
शरीरं वैकुण्ठं हृदयनलिनं वाससदनं मनोवृत्तिस्तार्क्ष्यो मतिरियमथॊ सागरसुता।
विहारस्तेऽवस्थात्रितयमसवः पार्षदगणो न पश्यन्त्यज्ञास्त्वमिह बहिरहो याति जनता ॥२४॥
सुघोरं कान्तारं विशति च तटाकं सुगहनं तथोत्तुङ्गं शृङ्गं सपदि च समारोहति गिरेः।
प्रसूनार्थं चेतोऽम्बुजममलमेकं त्वयि विभो समर्प्याज्ञस्तूर्णंबत न च सुखं विन्दति जनः ॥२५॥
कृतैकान्तावासा विगतनिखिलाशाः शमपराः जितश्वासोच्छ्वासास्त्रुटितभवपाशाः सुयमिनः।
परं ज्योतिः पश्यन्त्यनघमभिपश्यन्तु मम तु श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः ॥२६॥
कदा गंगोत्तुङ्गामलतरतरंगाच्छपुलिने वसन्नाशापाशादखिलखलदाशादपगतः।
अये लक्ष्मीकान्तांबुजनयन ताताऽमरपते प्रसीदेत्याजल्पन्नमरवर नेष्यामि समयम्॥२७॥
कदा शृङ्गैः स्फीते मुनिगणपरीते हिमनगे द्रुमावीते शीते सुरमधुरगीते प्रतिवसन्।
क्वचिद्ध्यानासक्तो विषयसुविरक्तो भवहरं स्मरंस्ते पादाब्जं जनिहर समेष्यामि विलयम् ॥२८॥
सुधापानं ज्ञानं न च विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगोपरमणम्।
जपो नो नो तीर्थव्रतमिह न चोग्रं त्वयि तपो विना भक्तिं तेऽलं भवभयविनाशाय मधुहन् ॥२९॥
नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो नमोऽसंश्लिष्टाय त्रिभुवननिविष्टाय च नमः।
नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः ॥३०॥
[AdSense-C]
कणान् कश्चिद्वृष्टेर्गणननिपुणस्तूर्णमवने- स्तथाऽशेषान्पांसूनमित कलयेच्चापि तु जनः।
नभः पिण्डीकुर्यादचिरमपिचेच्चर्मवदिदं तथापीशासौ ते कलयितुमलं नाखिलगुणान्॥३१॥
क्व माहात्म्यं सीमोझितमविषयं वेदवचसां विभो मेऽतो चेतः क्वच विविधतापाहतमिदम्।
मयेदं यत्किञ्चिद्गदितमथ बाल्येन तु गुरो गृहाणैतच्छुद्धार्पितमिह न हेयं हि महताम् ॥३२॥
इति हरिस्तवनं सुमनोहरं परमहंसजनेन समीरितं ।
सुगमसुन्दरसारपदास्पदं तदिदमस्तु हरेरनिशं मुदे॥३३॥
गदारथांगांबुजकंबुधारिणो रमाश्लिष्टतनोस्तनोतु नः।
बिलेशयाधीशशरीरशायिनः शिवस्तवोजस्रमयं परं हरेः ॥३४॥
पठेदिदं यस्तु नरः परस्तवं समाहितोघौघघनप्रभञ्जनम्।
स विन्दतेत्राखिल भोगसंपदो महीयते विष्णुपदे ततो ध्रुवम् ॥३५॥
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>
यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here