श्री विठ्ठल अष्टोत्तर शतनाम स्तोत्रम्, Shri Vitthal Ashtottara Shatanama Stotram, Shri Vitthal Ashtottara Shatanama Stotram Ke Fayde, Shri Vitthal Ashtottara Shatanama Stotram Ke Labh, Shri Vitthal Ashtottara Shatanama Stotram Benefits, Shri Vitthal Ashtottara Shatanama Stotram Pdf, Shri Vitthal Ashtottara Shatanama Stotram Mp3 Download, Shri Vitthal Ashtottara Shatanama Stotram Lyrics.
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
नोट : यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
30 साल के फ़लादेश के साथ वैदिक जन्मकुंडली बनवाये केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
श्री विठ्ठल अष्टोत्तर शतनाम स्तोत्रम् || Shri Vitthal Ashtottara Shatanama Stotram
श्री विठ्ठल अष्टोत्तर शतनाम स्तोत्रम् में भगवान श्री विठ्ठला जी के 108 नामों का वर्णन किया हैं ! श्री विठ्ठल शतनामावली स्तोत्रम के बारे में बताने जा रहे हैं !! जय श्री सीताराम !! जय श्री हनुमान !! जय श्री दुर्गा माँ !! यदि आप अपनी कुंडली दिखा कर परामर्श लेना चाहते हो तो या किसी समस्या से निजात पाना चाहते हो तो कॉल करके या नीचे दिए लाइव चैट ( Live Chat ) से चैट करे साथ ही साथ यदि आप जन्मकुंडली, वर्षफल, या लाल किताब कुंडली भी बनवाने हेतु भी सम्पर्क करें : 9667189678 Shri Vitthal Ashtottara Shatanama Stotram By Online Specialist Astrologer Sri Hanuman Bhakt Acharya Pandit Lalit Trivedi.
श्री विठ्ठल अष्टोत्तर शतनाम स्तोत्रम् || Shri Vitthal Ashtottara Shatanama Stotram
श्रुत्वा नामसहस्रं श्रीविठ्ठलस्य गुणान्वितम् ।
पार्वती परिपप्रच्छ शङ्करं लोकशङ्करम् ॥ १॥
श्रीपार्वत्युवाच ॥
देवदेव महादेव देवानुग्रहविग्रह ।
अष्टोत्तरशतं नाम्नां तस्य देवस्य मे वद ॥ २॥
जनः कलिमलादिग्धोऽलसः कामाविलो जडः ।
पाठाद्यस्य सकृद्वापि सौशील्यादियुतो भवेत् ॥ ३॥
तदहं श्रेतुमिच्छामि तवाज्ञातं न विद्यते ।
इत्युक्तो भार्यया शम्भुः संस्मरन् पुरुषोत्तमम् ॥ ४॥
कटिस्थितकरद्वन्द्वं जगाद नगपुत्रिकाम् ।
श्रीशङ्कर उवाच देवि लोकोपकाराय कृतः प्रश्नस्त्वयानघे ॥ ५॥
हिताय सर्वजन्तूनां नाम्नामष्टोत्तरं शतम् ।
श्रीविठ्ठलस्य देवस्य वाग्मिसिद्धिप्रदं नृणाम् ॥ ६॥
अष्टोत्तरशतस्याहमृषिः प्रोक्तो मनीषिभिः ।
छन्दोऽनुष्टुब्देवता श्रीविठ्ठलः परिकीर्तितः ॥ ७॥
ध्यायेच्छ्रीविठ्ठलाख्यं समपदकमलं पद्मपत्रायताक्षं गम्भीरस्निग्धहासं कटिनिहितकरं नीलमेघावभासम् ।
विद्युद्वासो वसानं मणिमयमकुटं कुण्डलोद्भासिगण्डं मायूरस्रग्विभूषाभयवरसहितं कौस्तुभोद्भासिताङ्गम् ॥ ८॥
ॐ क्लीं विठ्ठलः पुण्डरीकाक्षः पुण्डरीकनिभेक्षणः ।
पुण्डरीकाश्रमपदः पुण्डरीकजलाप्लुतः ॥ ९॥
पुण्डरीकक्षेत्रवासः पुण्डरीकवरप्रदः ।
शारदाधिष्ठितद्वारः शारदेन्दुनिभाननः ॥ १०॥
[AdSense-A]
नारदाधिष्ठितद्वारो नारदेशप्रपूजितः ।
भुवनाधीश्वरीद्वारो भुवनाधीश्वरीश्वरः ॥ ११॥
दुर्गाश्रितोत्तरद्वारो दुर्गमागमसंवृतः ।
क्षुल्लपेशीपिनद्धोरुगोपेष्ट्याश्लिष्टजानुकः ॥ १२॥
कटिस्थितकरद्वन्द्वो वरदाभयमुद्रितः ।
त्रेतातोरणपालस्थत्रिविक्रम इतीरितः ॥ १३॥
तितऊक्षेत्रपोऽश्वत्थकोटीश्वरवरप्रदः ।
स एव करवीरस्थो नारीनारयणेति च ॥ १४॥
नीरासङ्गमसंस्थश्च सैकतप्रतिमार्चितः ।
वेणुनादेन देवानां मनः श्रवणमङ्गलः ॥ १५॥
देवकन्याकोटिकोटिनीराजितपदाम्बुजः ।
पद्मतीर्थस्थिताश्वत्थो नरो नारायणो महान् ॥ १६॥
चन्द्रभागासरोनीरकेलिलोलदिगम्बरः ।
ससध्रीचीत्सवीषूचीरितिश्रुत्यर्थरूपधृक् ॥ १७॥
ज्योतिर्मयक्षेत्रवासी सर्वोत्कृष्टत्रयात्मकः ।
स्वकुण्डलप्रतिष्ठाता पञ्चायुधजलप्रियः ॥ १८॥
क्षेत्रपालाग्रपूजार्थी पार्वतीपतिपूजितः ।
चतुर्मुखस्तुतो विष्णुर्जगन्मोहनरूपधृक् ॥ १९॥
मन्त्राक्षरावलीहृत्स्थकौस्तुभोरःस्थलप्रियः ।
स्वमन्त्रोज्जीवितजनः सर्वकीर्तनवल्लभः ॥ २०॥
[AdSense-B]
वासुदेवो दयासिन्धुर्गोगोपीपरिवारितः ।
युधिष्ठिरहतारातिर्मुक्तकेशी वरप्रदः ॥ २१॥
बलदेवोपदेष्टा च रुक्मिणीपुत्रनायकः ।
गुरुपुत्रप्रदो नित्यमहिमा भक्तवत्सलः ॥ २२॥
भक्तारिहा महादेवो भक्ताभिलषितप्रदः ।
सव्यसाची ब्रह्मविद्यागुरुर्मोहापकारकः ॥ २३॥
भीमामार्गप्रदाता च भीमसेनमतानुगः ।
गन्धर्वानुग्रहकरो ह्यपराधसहो हरिः ॥ २४॥
स्वप्नदर्शी स्वप्नदृश्यो भक्तदुःस्वप्नशान्तिकृत् ।
आपत्कालानुपेक्षी चानपेक्षेऽपेक्षितो जनैः ॥ २५॥
सत्योपयाचनः सत्यसन्धः सत्याभितारकः ।
सत्याजानी रमाजानी राधाजानी रथाङ्गभाक् ॥ २६॥
सिञ्चनः क्रीडनो गोपैर्दधिदुग्धापहारकः ।
बोधिन्युत्सवयुक् तीर्थः शयन्युत्सवभूमिभाक् ॥ २७॥
मार्गशीर्षोत्सवाक्रान्तवेणुनादपदाङ्कभूः ।
दध्यन्नव्यञ्जनाभोक्ता दधिभुक्कामपूरकः ॥ २८॥
बिलान्तर्धानसत्केलिलोलुपो गोपवल्लभः ।
सखिनेत्रे पिधायाशु कोऽहम्पृच्छाविशारदः ॥ २९॥
समासमप्रश्नपूर्वमुष्टिमुष्टिप्रदर्शकः ।
कुटिलीलासु कुशलः कुटिलालकमण्डितः ॥ ३०॥
[AdSense-C]
सारीलीलानुसारी च वाहक्रीडापरः सदा ।
कार्णाटकीरतिरतो मङ्गलोपवनस्थितः ॥ ३१॥
माध्याह्नतीर्थपूरेक्षाविस्मायितजगत्त्रयः ।
निवारितक्षेत्रविघ्नो दुष्टदुर्बुद्धिभञ्जनः ॥ ३२॥
वालुकावृक्षपाषाणपशुपक्षिप्रतिष्ठितः ।
आशुतोषो भक्तवशः पाण्डुरङ्गः सुपावनः ॥ ३३॥
पुण्यकीर्तिः परं ब्रह्म ब्रह्मण्यः कृष्ण एव च ।
अष्टोत्तरशतं नाम्नां विठ्ठलस्य महात्मनः ॥ ३४॥
इति ते कथितं देवि पवित्रं मङ्गलं महत् ।
त्रिकालमेककालं वा यः पठेन्नियतः शुचिः ॥ ३५॥
करस्थाः सिद्धयस्तस्य सत्यं सत्यं वदाम्यहम् ।
अपुत्रो बहुपुत्रः स्यादविद्यः सर्वविद्यते ॥ ३६॥
निर्धनो धनदो नूनं भवेदस्य निषेवणात् ।
अविनाभूतभार्यश्च जितारातिर्निरामयः ॥ ३७॥
बहुनोक्तेन किं देवि हरिवल्लभतामियात् ।
सूत उवाच श्रुत्वा तन्महदाश्वर्यमष्टोत्तरशां परम् ॥ ३८॥
पुनः पुनः प्रणम्येशं पार्वती वाक्यमब्रवीत् ।
पार्वत्युवाच तत्क्षेत्रवसतिश्चैव तत्तीर्थस्यावगाहनम् ॥ ३९॥
तन्मूर्तिदर्शनं चैव तन्नामावलिकीर्तनम् ।
देहि मे सर्वदा स्वामिन्नेकाग्रमनसा विभो ॥ ४०॥
श्रीशङ्कर उवाच तदस्तु तव देवेशि ममाप्येतन्मनीषितम् ।
इत्युक्त्वा प्रययौ तस्य निवासं परमादरात् ॥ ४१॥
इति श्रीपद्ममुप्राणान्तर्गतं श्रीविठ्ठलाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
10 वर्ष के उपाय के साथ अपनी लाल किताब की जन्मपत्री ( Lal Kitab Horoscope ) बनवाए केवल 500/- ( Only India Charges ) में ! Mobile & Whats app Number : +91-9667189678
<<< पिछला पेज पढ़ें अगला पेज पढ़ें >>>
यदि आप अपने जीवन में किसी कारण से परेशान चल रहे हो तो ज्योतिषी सलाह लेने के लिए अभी ज्योतिष आचार्य पंडित ललित त्रिवेदी पर कॉल करके अपनी समस्या का निवारण कीजिये ! +91- 9667189678 ( Paid Services )
यह पोस्ट आपको कैसी लगी Star Rating दे कर हमें जरुर बताये साथ में कमेंट करके अपनी राय जरुर लिखें धन्यवाद : Click Here